GP:प्रवचनसार - गाथा 9 - तत्त्व-प्रदीपिका
From जैनकोष
अथ जीवस्य शुभाशुभशुद्धत्वं निश्चिनोति –
यदाऽयमात्मा शुभेनाशुभेन वा रागभावेन परिणमति तदा जपातापिच्छरागपरिणतस्फटिक-वत् परिणामस्वभाव: सन् शुभोऽशुभश्च भवति । यदा पुन: शुद्धेनारागभावेन परिणमति तदा शुद्धारागपरिणतस्फटिकवत्परिणामस्वभाव: सन् शुद्धो भवतीति सिद्धं जीवस्य शुभाशुभशुद्धत्वम् ।