समयसार - आत्मख्याति टीका - कलश 98
From जैनकोष
अथवा नानटय्यतां तथापि
( मन्द्राक्रान्ता )
कर्ता कर्ता भवति न यथा कर्म कर्मापि नैव
ज्ञानं ज्ञानं भवति च यथा पुद्गल: पुद्गलोऽपि ।
ज्ञानज्योतिर्ज्वलितमचलं व्यक्तमन्तस्तथोच्चै-
श्चिच्छक्तीनां निकरभरतोऽत्यन्तगम्भीरमेतत् ॥९९॥
इति जीवाजीवौ कर्तृकर्मवेषविमुक्तौ निष्क्रान्तौ ।
इति श्रीमदमृतचन्द्रसूरिविरचितायां समयसार-व्याख्यायामात्मख्यातौ कर्तृकर्मप्ररूपक: द्वितीयोऽङ्क: ।