GP:प्रवचनसार - गाथा 122 - तात्पर्य-वृत्ति
From जैनकोष
अथात्मा निश्चयेन स्वकीयपरिणामस्यैव कर्ता, न च द्रव्यकर्मण इति प्रतिपादयति । अथवा द्वितीयपातनिका – शुद्धपारिणामिकपरमभावग्राहकेण शुद्धनयेन यथैवाकर्ता तथैवाशुद्धनयेनापिसांख्येन यदुक्तं तन्निषेधार्थमात्मनो बन्धमोक्षसिद्धयर्थं कथंचित्परिणामित्वं व्यवस्थापयतीति
पातनिकाद्वयं मनसि संप्रधार्य सूत्रमिदं निरूपयति --
परिणामो सयमादा परिणामः स्वयमात्मा, आत्म-परिणामस्तावदात्मैव । कस्मात् । परिणामपरिणामिनोस्तन्मयत्वात् । सा पुण किरिय त्ति होदि सा पुनःक्रियेति भवति, स च परिणामः क्रिया परिणतिरिति भवति । कथंभूता । जीवमया जीवेननिर्वृत्तत्वाज्जीवमयी । किरिया कम्म त्ति मदा जीवेन स्वतन्त्रेण स्वाधीनेन शुद्धाशुद्धोपादानकारणभूतेनप्राप्यत्वात्सा क्रिया कर्मेति मता संमता । कर्मशब्देनात्र यदेव चिद्रूपं जीवादभिन्नं भावकर्मसंज्ञंनिश्चयकर्म तदेव ग्राह्यम् । तस्यैव कर्ता जीवः । तम्हा कम्मस्स ण दु कत्ता तस्माद्द्रव्यकर्मणो न कर्तेति । अत्रैतदायाति --
यद्यपि कथंचित् परिणामित्वे सति जीवस्य कर्तृत्वं जातं तथापि निश्चयेन स्वकीय-परिणामानामेव कर्ता, पुद्गलकर्मणां व्यवहारेणेति । तत्र तु यदा शुद्धोपादानकारणरूपेण शुद्धोपयोगेन परिणमति तदा मोक्षं साधयति, अशुद्धोपादानकारणेन तु बन्धमिति । पुद्गलोऽपि जीववन्निश्चयेनस्वकीयपरिणामानामेव कर्ता, जीवपरिणामानां व्यवहारेणेति ॥१२२॥
एवं रागादिपरिणामाः कर्मबन्ध-कारणं, तेषामेव कर्ता जीव इतिकथनमुख्यतया गाथाद्वयेन तृतीयस्थलं गतम् ।