GP:प्रवचनसार - गाथा 141 - तत्त्व-प्रदीपिका
From जैनकोष
अथ तिर्यगूर्ध्वप्रचयावावेदयति -
प्रदेशप्रचयो हि तिर्यक्प्रचय: समयविशिष्टवृत्तिप्रचयस्तदूर्ध्वप्रचय: ।
तत्राकाशस्यावस्थितानंतप्रदेशत्वाद्धर्माधर्मयोरवस्थितासंख्येयप्रदेशत्वाज्जीवस्यानवस्थितासंख्येयप्रदेशत्वात् पुद्गलस्य द्रव्येणानेकप्रदेशत्वशक्तियुक्तैकप्रदेशत्वात्पर्यायेण द्विबहुप्रदेशत्वाच्चास्ति तिर्यक्प्रचय: । न पुन: कालस्य, शक्त्या व्यक्त्या चैकप्रदेशत्वात् ।
ऊर्ध्वप्रचयस्तु त्रिकोटिस्पर्शित्वेन सांशत्वाद्द्रव्यवृत्ते: सर्वद्रव्याणामनिवारित एव ।
अयं तु विशेष: समयविशिष्टवृत्तिप्रचय: शेषद्रव्याणामूर्ध्वप्रचय:, समयप्रचय: एव कालस्योर्ध्वप्रचय: । शेषद्रव्याणां वृत्तेर्हि समयादर्थान्तरभूतत्वादस्ति समयविशिष्टत्वम् । कालवृत्तेस्तु स्वत: समयभूतत्वात्तन्नास्ति ॥१४१॥