GP:प्रवचनसार - गाथा 194 - तत्त्व-प्रदीपिका
From जैनकोष
अथैवं शुद्धात्मोपलम्भात्किं स्यादिति निरूपयति -
अमुना यथोदितेन विधिना शुद्धात्मानं ध्रुवमधिगच्छतस्तस्मिन्नेव प्रवृत्तै: शुद्धात्मत्वं स्यात्, ततोऽनन्तशक्तिचिन्मात्रस्य परमस्यात्मन एकाग्रसंचेतनलक्षणं ध्यानं स्यात्, तत: साकारो-पयुक्तस्यानाकारोपयुक्तस्य वाविशेषेणाकाग्रचेतनप्रसिद्धेसंसारबद्धदृढतरमोहदुर्ग्रन्थेरुद्ग्रथनं स्यात् । अत: शुद्धात्मोपलम्भस्य मोहग्रन्थिभेद: फलम् ॥१९४॥
अथ मोहग्रन्थिभेदात्किं स्यादिति निरूपयति -
मोहग्रन्थिक्षपणाद्धि तन्मूलरागद्वेषक्षपणं, तत: समसुखदु:खस्य परममाध्यस्थलक्षणे श्रामण्ये भवनं, ततोऽनाकुलत्वलक्षणाक्षयसौख्यलाभ: । अतो मोहग्रन्थिभेदादक्षयसौख्यं फलम् ॥१९५॥
अथैकाग्रसंचेतनलक्षणं ध्यानमशुद्धत्वमात्मनो नावहतीति निश्चिनोति -
आत्मनो हि परिक्षपितमोहकलुषस्य तन्मूलपरद्रव्यप्रवृत्त्यभावाद्विषयविरक्तत्वं स्यात्, ततोऽधिकरणभूतद्रव्यान्तराभावादुदधिमध्यप्रवृत्तैकपोतपतत्रिण इव अनन्यशरणस्य मनसो निरोध: स्यात् । ततस्तन्मूलचञ्चलत्वविलयादनन्तसहजचैतन्यात्मनि स्वभावे समवस्थानं स्यात् । तत्तु स्वरूपप्रवृत्तनाकुलैकाग्रसंचेतनत्वात् ध्यानमित्युपगीयते ।
अत: स्वभावावस्थानरूपत्वेन ध्यानमात्मनोऽनन्यत्वात् नाशुद्धत्वायेति ॥१९६॥
अथोपलब्धशुद्धात्मा सकलज्ञानी किं ध्यायतीति प्रश्नमासूत्रयति -
लोको हि मोहसद्भावे ज्ञानशक्तिप्रतिबन्धकसद्भावे च सतृष्णत्वादप्रत्यक्षार्थत्वानवच्छिन्न-विषयत्वाभ्यां चाभिलषितं जिज्ञासितं संदिग्धं चार्थ ध्यायन् दृष्ट:, भगवान् सर्वज्ञस्तु निहतघन-घातिकर्मतया मोहाभावे ज्ञानशक्तिप्रतिबन्धकाभावे च निरस्ततृष्णत्वात्प्रत्यक्षसर्वभावतत्त्व-ज्ञेयान्तगतत्वाभ्यां च नाभिलषित, न जिज्ञासति, न संदिह्यति च, कुतोऽभिलषितो जिज्ञासित: संदिग्धश्चार्थ: । एवं सति किं ध्यायति ॥१९७॥
अथैतदुपलब्धशुद्धात्मा सकलज्ञानी ध्यायतीत्युत्तरमासूत्रयति -
अयमात्मा यदैव सहजसौख्यज्ञानबाधायतनानामसार्वदिक्कासकलपुरुषसौख्यज्ञानायत- नानां चाक्षाणामभावात्स्वयमनक्षत्वेन वर्तते तदैव परेषामक्षातीतो भवन् निराबाधसहजसौख्य- ज्ञानत्वात् सर्वाबाधवियुक्त:, सार्वदिक्कसकलपुरुषसौख्यज्ञानपूर्णत्वात्समन्तसर्वाक्षसौख्य-ज्ञानाढय्यश्च भवति । एवंभूतश्च सर्वाभिलाषजिज्ञासासंदेहासंभवेऽप्यपूर्वमनाकुलत्वलक्षणं परमसौख्यं ध्यायति । अनाकुलत्वसंगतैकाग्रसंचेतनमात्रेणावतिष्ठत इति यावत् । ईदृशमवस्थानं च सहजज्ञानानन्दस्वभावस्य सिद्धत्वस्य सिद्धिरेव ॥१९८॥
अथायमेव शुद्धात्मोपलम्भलक्षणो मोक्षस्य मार्ग इत्यवधारयति -
यत: सर्व एव सामान्यचरमशरीरास्तीर्थंकरा: अचरमशरीरा मुमुक्षवश्चामुनैव यथोदितेन शुद्धात्मतत्त्वप्रवृत्तिलक्षणेन विधिना प्रवृत्तमोक्षस्य मार्गमधिगम्य सिद्धा बभूबु:, न पुनरन्यथापि । ततोऽवधार्यते केवलमयमेक एव मोक्षस्य मार्गो, न द्वितीय इति ।
अलं च प्रपञ्चेन । तेषां शुद्धात्मतत्त्वप्रवृत्तनां सिद्धानां तस्य शुद्धात्मतत्त्वप्रवृत्तिरूपस्य मोक्षमार्गस्य च प्रत्यस्तमितभाव्यभावकविभागत्वेन नोआगमभावनमस्कारोऽस्तु ।
अवधारितो मोक्षमार्ग:, कृत्यमनुष्ठीयते ॥१९९॥
अथोपसंपद्ये साम्यमिति पूर्वप्रतिज्ञां निर्वहन् मोक्षमार्गभूतां स्वयमपि शुद्धात्मप्रवृत्तिमा-सूत्रयति -
अहमेष मोक्षाधिकारी ज्ञायकस्वभावत्मतत्त्वपरिज्ञानपुरस्सरममत्वनिर्ममत्वहानोपादान-विधानेन कृत्यान्तरस्याभावात्सर्वारम्भेण शुद्धात्मनिर्वृत्ति प्रवर्ते । तथाहि -
अहं हि तावत् ज्ञायक एव स्वभावेन, केवलज्ञायकस्य च सतो मम विश्वेनापि सहजज्ञेय-ज्ञायकलक्षण एव संबंध:, न पुनरन्ये स्वस्वामिलक्षणादय: संबंधा: । ततो मम न क्वचनापि ममत्वं, सर्वत्र निर्ममत्वमेव ।
अथैकस्य ज्ञायकभावस्य समस्तज्ञेयभावस्वभावत्वात् प्रोत्कीर्णलिखितनिखातकीलित-मज्जितसमावर्तितप्रतिबिम्बितवत्तत्र क्रमप्रवृत्तनन्तभूतभवद्भाविविचित्रपर्यायप्राग्भारमगाध-स्वभावं गम्भीरं समस्तमपि द्रव्यजातमेकक्षण एव प्रत्यक्षयन्तं ज्ञेयज्ञायकलक्षणसंबंधस्या- निवार्यत्वेनाशक्यविवेचनत्वादुपात्तवैश्वरूप्यमपि सहजानन्तशक्तिज्ञायकस्वभावेनैक्यरूप्य- मनुज्झन्तमासंसारमनयैव स्थित्या स्थितं मोहेनान्यथाध्यवस्यमानं शुद्धात्मानमेष मोहमुत्खाय यथास्थितमेवातिनि:प्रकम्प: संप्रतिपद्ये । स्वयमेव भवतु चास्यैवं दर्शनविशुद्धिमूलया सम्यग्ज्ञा-नोपयुक्ततयात्यन्तमव्याबाधरतत्वातसाधोरपि साक्षात्सिद्धभूतस्य स्वात्मनस्तभाभूतानां परमात्मनां च नित्यमेव तदेकपरायणत्वलक्षणो भावनमस्कार: ॥२००॥