GP:प्रवचनसार - गाथा 225 - तत्त्व-प्रदीपिका
From जैनकोष
अथ केऽपवादविशेषा इत्युपदिशति -
यो हि नामाप्रतिषिद्धोऽस्मिन्नुपधिरपवाद:, स खलु निखिलोऽपि श्रामण्यपर्यायसहकारि-कारणत्वेनोपकारकारकत्वादुपकरणभूत एव, न पुनरन्य: । तस्य तु विशेषा: सर्वाहार्यवर्जितसहजरूपापेक्षितयथाजातरूपत्वेन बहिरंगलिंगभूता: कायपुद्गला: श्रूयमाणतत्कालबोधकगुरुगीर्यमाणात्मतत्त्वद्योतकसिद्धोपदेशवचनपुद्गला:, तथाधीयमाननित्यबोधकानादिनिधनशुद्धात्मतत्त्वद्योतनसमर्थश्रुतज्ञानसाधनीभूतशब्दात्मक-सूत्रपुद्गलाश्च, शुद्धात्मतत्त्वव्यञ्जकदर्शनादिपर्यायतत्परिणतपुरुषविनीतताभिप्रायप्रवर्तक-चित्तपुद्गलाश्च भवन्ति । इदमत्र तात्पर्यं, कायवद्वचनमनसी अपि न वस्तुधर्म: ॥२२५॥