GP:प्रवचनसार - गाथा 252 - तत्त्व-प्रदीपिका
From जैनकोष
यदा हि समधिगतशुद्धात्मवृत्ते: श्रमणस्य तत्प्रच्यावनहेतो: कस्याप्युपसर्गस्योपनिपात: स्यात्, स शुभोपयोगिन: स्वशक्तया प्रतिचिकीर्षा प्रवृत्तिकाल: । इतरस्तु स्वयं शुद्धात्मवृत्ते: समधिगमनाय केवलं निवृत्तिकाल एव ॥२५२॥