GP:प्रवचनसार - गाथा 255 - तत्त्व-प्रदीपिका
From जैनकोष
अथ शुभोपयोगस्य कारणवैपरीत्यात् फलवैपरीत्यं साधयति -
यथैकेषामपि बीजानां भूमिवैपरीत्यान्निष्पत्तिवैपरीत्यं, तथैकस्यापि प्रशस्तरागलक्षणस्य शुभोपयोगस्य पात्रवैपरीत्यात्फलवैपरीत्यं कारणविशेषात्कार्यविशेषस्यावश्यंभावि-त्वात् ॥२५५॥