GP:प्रवचनसार - गाथा 256 - तत्त्व-प्रदीपिका
From जैनकोष
अथ कारणवैपरीत्यफल-वैपरीत्ये दर्शयति -
शुभोपयोगस्य सर्वज्ञव्यवस्थापितवस्तुषु प्रणिहितस्य पुण्योपचयपूर्वकोऽपुनर्भावोपलम्भ: किल फलं, तत्तु कारणवैपरीत्याद्विपर्यय एव । तत्र छद्मस्थव्यवस्थापितवस्तूनि कारणवैपरीत्यं, तेषु व्रतनियमाध्ययनध्यानदानरतत्वप्रणिहितस्य शुभोपयोगस्यापुनर्भावशून्यकेवलपुण्यापसद-प्राप्ति: फलवैपरीत्यं तत्सुदेवमनुजत्वम् ॥२५६॥