GP:प्रवचनसार - गाथा 38 - तत्त्व-प्रदीपिका
From जैनकोष
अथासद्भूतपर्यायाणां कथंचित्सद्भूतत्वं विदधाति –
ये खलु नाद्यापि संभूतिमनुभवन्ति, ये चात्मलाभमनुभूय विलयमुपगतास्ते किलासद्भूता अपि परिच्छेदं प्रति नियतत्वात् ज्ञानप्रत्यक्षतामनुभवन्त: शिलास्तम्भोत्कीर्णभूतभाविदेववद-प्रकम्पार्पितस्वरूपा: सद्भूता एव भवन्ति ॥३८॥