GP:प्रवचनसार - गाथा 42 - तत्त्व-प्रदीपिका
From जैनकोष
अथ ज्ञेयार्थपरिणमनलक्षणा क्रिया ज्ञानान्न भवतीति श्रद्दधाति -
परिच्छेत्त हि यत्परिच्छेद्यमर्थं परिणमति तन्न तस्य सकलकर्मकक्षक्षयप्रवृत्तस्वाभाविकपरिच्छेदनिदानमथवा ज्ञानमेव नास्ति तस्य; यत: प्रत्यर्थपरिणतिद्वारेण मृगतृष्णाम्भोभारसंभावनाकरणमानस: सुदु:सहं कर्मभारमेवोपभुञ्जान: स जिनेन्द्रैरुद्गीत: ॥४२॥