GP:प्रवचनसार - गाथा 70 - तत्त्व-प्रदीपिका
From जैनकोष
अथ शुभोपयोगसाध्यत्वेनेन्द्रियसुखमाख्याति -
अयमात्मेन्द्रियसुखसाधनीभूतस्य शुभोपयोगस्य सामर्थ्यात्तदधिष्ठानभूतानां तिर्यग्मानुषदेवत्वभूमिकानामन्यतमां भूमिकामवाप्य यावत्कालमवतिष्ठते, तावत्कालमनेकप्रकारमिन्द्रियसुखं समासादयतीति ॥७०॥