GP:रत्नकरंड श्रावकाचार - श्लोक 110 - टीका
From जैनकोष
प्रोषधोपवासस्य व्यातिलङ्घनपञ्चकमतिचारपञ्चकम् । तदिदं पूर्वार्धप्रतिपादितप्रकारम् । तथा हि । ग्रहणविसर्गास्तरणानि त्रीणि । कथम्भूतानि ? अदृष्टमृष्टानि दृष्टं दर्शनं जन्वत: सन्ति न सन्तीति वा चक्षुषावलोकनं मृष्टं मदुनोपकरणेन प्रमार्जनं तदुभौ न विद्येते येषु ग्रहणादिषु तानि तथोक्तानि तत्र बुभुक्षापीडितस्यादृष्टमृष्टस्यार्हदादिपूजोपकरणस्यात्मपरिधानाद्यर्थस्य च ग्रहणं भवति । तथा अदृष्टमृष्टायां भूमौ मूत्रपुरीषादेरुत्सर्गो भवति । तथा अदृष्टमृष्टे प्रदेशे आस्तरणं संस्तरोपक्रमो भवतीत्येतानि त्रीणि । अनादरास्मरणे च द्वे । तथा आवश्यकादौ हि बुभुक्षा पीडितत्वादनादरोऽनैकाग्रतालक्षणमस्मरणं च भवति ॥