GP:रत्नकरंड श्रावकाचार - श्लोक 114 - टीका
From जैनकोष
विमाष्र्टि स्फेटयति । खलु स्फुटम् । किं तत् ? कर्म पापरूपम् । कथम्भूतम् ? निचितमपि उपार्जितमपि पुष्टमपि वा । केन ? गृहकर्मणा सावद्यव्यापारेण । कासौ कत्र्री ? प्रतिपूजा दानम् । केषाम् ? अतिथीनां न विद्यते तिथिर्येषां तेषाम् । किंविशिष्टानाम् ? गृहविमुक्तानां गृहरहितानाम् । अस्यैवार्थस्य समर्थनार्थं दृष्टान्तमाह -- रुधिरमलं धावते वारि । अलंशब्दो यथार्थे । अयमर्थो रुधिरं यथा मलिनमपवित्रं च वारि कर्तृ निर्मलं पवित्रं च धावते प्रक्षालयति तथा दानं पापं विमार्ष्टि ॥