GP:रत्नकरंड श्रावकाचार - श्लोक 115 - टीका
From जैनकोष
तपोनिधिषु यतिषु । प्रणते: प्रणामकरणादुच्चैर्गोत्रं भवति । तथा दानादशनशुद्धिलक्षणाद्भोगो भवति । उपासनात् प्रतिग्रहणादिरूपात् सर्वत्र पूजा भवति । भक्तेर्गुणानुरागजनितान्त: श्रद्धाविशेषलक्षणाया: सुन्दररूपं भवति । स्तवनात् श्रुतजलधीत्यादिस्तुतिविधानात् सर्वत्र कीर्तिर्भवति ॥