GP:रत्नकरंड श्रावकाचार - श्लोक 116 - टीका
From जैनकोष
अल्पमपि दानमुचितकाले । पात्रगतं सत्पात्रे दत्तम् । शरीरभृतां संसारिणाम् । इष्टं फलं बह्वनेकप्रकारं सुन्दररूपभोगोपभोगादिलक्षणं फलति । कथम्भूतम् ? छायाविभवं छाया माहात्म्यं विभव: सम्पत् तौ विद्येते यत्र । अस्यैवार्थस्य समर्थनार्थं क्षितीत्यादिदृष्टान्तमाह । क्षितिगतं सुक्षेत्रे निक्र्षिप्तं यथा अल्पमति वटबीजं बहुफलं फलति । कथम्? छायाविभवं छाया आतपनिरोधिनी तस्या विभव: प्राचुर्यं यथा भवत्येवं फलति ॥