GP:रत्नकरंड श्रावकाचार - श्लोक 127 - टीका
From जैनकोष
स्निग्धं दुग्धादिरूपं पानम् । विवर्धयेत् परिपूर्णं दापयेत् । किं कृत्वा ? परिहाप्य परित्याज्य । कम् ? आहारं कवलाहाररूपम् । कथम् ? क्रमश: प्रागशनादिक्रमेण पश्चात् खरपानं कंजिकादि, शुद्धपानीयरूपं वा । किं कृत्वा ? हापयित्वा । किम् ? स्निग्धं च स्निग्धमपि पानकम् । कथम् ? क्रमश: । स्निग्धं हि परिहाप्य कञ्जिकादिरूपं खरपानं पूरयेत् विवर्धयेत् । पश्चात्तदपि परिहाप्य शुद्धपानीयरूपं खरपानं पूरयेदिति ॥