GP:रत्नकरंड श्रावकाचार - श्लोक 130 - टीका
From जैनकोष
निष्पिबति आस्वादयति अनुभवति वा कश्चित् सल्लेखनानुष्ठाता । किं तत् ? नि:श्रेयसं निर्वाणम् । किंविशिष्टम् ? सुखाम्बुनिधिं सुखसमुद्रस्वरूपम्। तर्हि सपर्यन्तं तद्भविष्यतीत्याह- निस्तीरं तीरात्पर्यन्तान्निष्क्रान्तम् । कश्चित्पुनस्तदनुष्ठाता अभ्युदयमहमिन्द्रादिसुखपरम्परा निष्पिबति । कथम्भूतम् ? दुस्तरं महता कालेन प्राप्यपर्यन्तम् । किंविशिष्ट: सन् ? सर्वैर्दु:खैरनालीढ: सर्वै: शारीरमानसादिभिर्दु:खैरनालीढोऽसंस्पृष्ट: । कीदृश: सन्नेतद्वयं निष्पिबति ? पीतधर्मा पीतोऽनुष्ठितो धर्म उत्तमक्षमादिरूप: चारित्रस्वपो वा येन ॥