GP:रत्नकरंड श्रावकाचार - श्लोक 150 - टीका
From जैनकोष
मांसुखयतुसुखिनंकरोतु । कासौ ? दृष्टिलक्ष्मी: सम्यग्दर्शनसम्पत्ती । किंविशिष्टेत्याह -- जिनेत्यादिजिनानांदेशत: कर्मोन्मूलकानांगणधरदेवादीनांपतयस्तीर्थङ्करास्तेषांपदानिसुबन्ततिङन्तानिपदावातान्येवपद्मानितानिप्रेक्षतेश्रद्दधातीत्येवंशीला । अयमर्थ :- लक्ष्मी: पद्मावलोकनशीलाभवति, दृष्टिलक्ष्मीस्तुजिनोक्तपदपदार्थप्रेक्षणशीलेति । कथम्भूतासा ? सुखभूमि: । सुखोत्पत्तिस्थानम् । केवकम् ? कामिनंकामिनीवयथाकामिनीकामभूमि: कामिनंसुखयतितथामांदृष्टिलक्ष्मी: सुखयतु । तथासामांभुनक्तुरक्षतु । केव ? सुतमिवजननी । किंविशिष्टा ? शुद्धशीलाजननीहिशुद्धशीलासुतंरक्षतिनाशुद्धशीलादुश्चारिणी । दृष्टिलक्ष्मीस्तुगुणव्रतशिक्षाव्रतलक्षणशुद्ध-सप्तशीलसमन्वितामांभुनक्तु । तथासामांसम्पुनीतात्सकलदोषकलङ्कंनिराकृत्यपवित्रयतु । किमिव ? कुलमिवगुणभूषाकन्यका । अयमर्थ: कुलंयथागुणभूषागुणाऽलङ्कारोपेताकन्यापवित्रयतिश£ाघ्यतांनयतितथादृष्टिलक्ष्मीरपिगुणभूषाअष्टमूलगुणैरलङ्कृतामांसम्यक्पुनीतादिति ॥२९॥;;येनाज्ञानतमोविनाश्यनिखिलंभव्यात्मचेतोगतम्,;;सम्यग्ज्ञानमहांशुभि: प्रकटित: सागारमार्गोऽखिल:;;सश्रीरत्नकरण्डकामलरवि: संसृत्सरिच्छोषको,;;जीयादेषसमन्तभद्रमुनिय: श्रीमान्प्रभेन्दुर्जिन: ॥१॥
इतिप्रभाचन्द्रविरचितायांसमन्तभद्रस्वामीविरचितोपासकाध्ययनटीकायांपञ्चम: परिच्छेद:।