GP:रत्नकरंड श्रावकाचार - श्लोक 17 - टीका
From जैनकोष
वात्सल्यंसधर्मिणिस्नेह: । अभिलष्यते प्रतिपाद्यते । कासौ ? प्रतिपत्ति: पूजाप्रशंसादिरूपा । कथम् ? यथायोग्यं योग्यानतिक्रमेण-अञ्जलिकरणाभिमुख-गमन-प्रशंसा-वचनोपकरण-सम्प्रदानादि-लक्षणा । कान्प्रति ? स्वयूथ्यान् जैनान्प्रति । कथम्भूता ? सद्भावसनाथा सद्भावेनावक्रतया-सहिताचित्त-पूर्विकेत्यर्थ: । अतएव अपेतकैतवा अपेतंविनष्टङ्कैतवंमायायस्या: ॥१७॥