GP:रत्नकरंड श्रावकाचार - श्लोक 28 - टीका
From जैनकोष
देवम् आराध्यम् । विदु र्मन्यन्ते । के ते ? देवा देवा वि तस्स पणमन्ति जस्स धम्मे सया मणो इत्यभिधानात् । कमपि ? मातङ्गदेहजमपि चाण्डालमपि । कथम्भूतम् ? सम्यग्दर्शनसम्पन्नं सम्यग्दर्शनेन सम्पन्नं युक्तम् । अतएव भस्मगूढाङ्गारान्तरौजसं भस्मना गूढ: प्रच्छादित: स चासावङ्गारश्च तस्य अन्तरं मध्यं तत्रैव ओज: प्रकाशो निर्मलता यस्य ॥२८॥