GP:रत्नकरंड श्रावकाचार - श्लोक 29 - टीका
From जैनकोष
श्वापि कुक्कुरोऽपि देवो जायते । देवोऽपि देव: श्वा जायते । कस्मात् ? धर्मकिल्विषात् धर्ममाहात्म्यात् खलु श्वापि देवो भवति । किल्विषात् पापोदयात् पुनर्देवोऽपि श्वा भवति यत एवं, तत: कापि वाचामगोचरा । नाम स्फुटम् । अन्या अपूर्वाऽद्वितीया । सम्पद् विभूतिविशेषो । भवेत् । कस्मात्? धर्मात् । केषाम्? शरीरिणां संसारिणां यत एवं ततो धर्म एव प्रेक्षावतानुष्ठातव्य: ॥२९॥