GP:रत्नकरंड श्रावकाचार - श्लोक 41 - टीका
From जैनकोष
शिवं मोक्षम् । उपैति प्राप्रोति । कोऽसौ ? भव्य: सम्यग्दृष्टि: । कथम्भूत: ? जिनभक्ति: जिने भक्तिर्यस्य । किं कृत्वा ? लब्ध्वा । कम् ? देवेन्द्रचक्रमहिमानं देवानामिन्द्रा देवेन्द्रास्तेषां चक्रं सङ्घातस्तत्र तस्य वा महिमानं विभूति माहात्म्यम् । कथम्भूतम् ? अमेयमानम् अमेयोऽपर्यन्तं मानं पूजा ज्ञानं वा यस्य तममेयमानम् । तथा राजेन्द्रचक्रं लब्ध्वा राज्ञामिन्द्राश्चक्रवर्तिनस्तेषां चक्रं चक्ररत्नम् । किं विशिष्टम् ? अवनीन्द्रशिरोऽर्चनीयम् अवन्यां निज-निजपृथिव्याम् इन्द्रा: मुकुटबद्धा: राजानस्तेषां शिरोभिरर्चनीयम् । तथा धर्मेन्द्रचक्रं लब्ध्वा धर्मस्तस्योत्तमक्षमादिलक्षणस्य चारित्रलक्षणस्य वा इन्द्रा अनुष्ठातार: प्रणेतारो वा तीर्थङ्करादयस्तेषां चक्रं सङ्घातं धर्मेन्द्राणां वा तीर्थकृतां सूचकं चक्रं धर्मचक्रम् । कथम्भूतम् ? अधरीकृतसर्वलोकम् अधरीकृतो भृत्यतां नीत: सर्वलोकस्त्रिभुवनं येन तत् । एतत्सर्वं लब्ध्वा पश्चाच्छिवं चोपैति भव्य इति ॥४१॥
इति प्रभाचन्द्रविरचितायां समन्तभद्रस्वामिविरचितोपासकाध्ययनटीकायां प्रथम: परिच्छेद: ॥१॥