GP:रत्नकरंड श्रावकाचार - श्लोक 48 - उत्थानिका
From जैनकोष
हिंसादे: निवर्तना व्यावृत्ति: कृता भवति । कुत: ? रागद्वेषनिवृत्ते: । अयमत्र तात्पर्यार्थ:- प्रवृत्तरागादिक्षयोपशमादे: हिंसादिनिवृत्तिलक्षणं चारित्रं भवति । ततो भाविरागादिनिवृत्तेरेव प्रकृष्टतरप्रकृष्टतमत्वात् हिंसादि निवर्तते । देशसंयतादिगुणस्थाने रागादिहिंसादिनिवृत्तिस्तावद्वर्तते यावन्नि:शेषरागादिप्रक्षय: तस्माच्च नि:शेषहिंसादिनिवृत्तिलक्षणं परमोदासीनतास्वरूपं परमोत्कृष्टचारित्रं भवतीति । अस्यैवार्थस्य समर्थनार्थमर्थान्तरन्यासमाह- अनपेक्षितार्थवृत्ति: क: पुरुष: सेवते नृपतीन् अनपेक्षिताऽनभिलषिता अर्थस्य प्रयोजनस्य फलस्य वृत्ति: प्राप्तिर्येन स तथाविध: पुरुष: को, न कोऽपि प्रेक्षापूर्वकारी, सेवते नृपतीन् ॥४८॥