GP:रत्नकरंड श्रावकाचार - श्लोक 4 - टीका
From जैनकोष
सम्यग्दर्शनं भवति । किम् ? श्रद्धानं रुचि: । केषां ? आप्तागमतपोभृतां वक्ष्यमाणस्वरूपाणाम् । न चैवं षड्द्रव्यसप्ततत्त्वनवपदार्थानां श्रद्धानमसङ्गृहीतमित्याशङ्कनीयम् आगमश्रद्धानादेव तच्छ्रद्धानसङ्ग्रहप्रसिद्धे: । अबाधितार्थप्रतिपादकमाप्तवचनं ह्यागम: । तच्छ्रद्धाने तेषां श्रद्धानं सिद्धमेव । किंविशिष्टनां तेषाम् ? परमार्थानां परमार्थभूतानां न पुनर्बौद्धमत इव कल्पितानाम् । कथम्भूतं श्रद्धानम् ? अस्मयं न विद्यते वक्ष्यमाणो ज्ञानदर्पाद्यष्टप्रकार: स्मयो गर्वो यस्य तत्। पुनरपि किंविशिष्टम् ? त्रिमूढापोढं त्रिभिर्मूढैर्वक्ष्यमाणलक्षणैरपोढं रहितं यत् । अष्टाङ्गं अष्टौ वक्ष्यमाणानि नि:शङ्कितत्वादीन्यङ्गानि स्वरूपाणि यस्य ॥४॥