GP:रत्नकरंड श्रावकाचार - श्लोक 5 - टीका
From जैनकोष
आप्तेन भवितव्यं नियोगेन निश्चयेन नियमेन वा । किं विशिष्टेन ? उत्सन्नदोषेण नष्टदोषेण । तथा सर्वज्ञेन सर्वत्र विषयेऽशेषविशेषत: परिस्फुटपरिज्ञानवता नियोगेन भवितव्यम् । तथा आगमेशिना भव्यजनानां हेयोपादेयतत्त्वप्रतिपत्तिहेतुभूतागमप्रतिपादकेन नियमेन भवितव्यम् । कुत एतदित्याह -- नान्यथा ह्याप्तता भवेत् हि यस्मात् अन्यथा उक्तविपरीतप्रकारेण, आप्तता न भवेत् ॥५॥