GP:रत्नकरंड श्रावकाचार - श्लोक 61 - उत्थानिका
From जैनकोष
परिमितपरिग्रहो देशत: परिग्रहविरतिरणुव्रतं स्यात् । कासौ ? या ततोऽधिकेषु निस्पृहता ततस्तेभ्य इच्छावशात् कृतपरिसङ्ख्यातेभ्योऽर्थेभ्योऽधिकेष्वर्थेषु या निस्पृहता वाञ्छाव्यावृत्ति: । किं कृत्वा ? परिमाय देवगुरुपादाग्रे परिमितं कृत्वा । कम् ? धनधान्यादिग्रन्थं धनं गवादि, धान्यं ब्रीह्यादि । आदिशब्दाद् दासीदासभार्यागृहक्षेत्रद्रव्यसुवर्णरूप्याभरणवस्त्रादिसङ्ग्रह: । स चासौ ग्रन्थश्च तं परिमाय । स च परिमितपरिग्रह: इच्छापरिमाण नामापि स्यात्, इच्छाया: परिमाणं यस्य स इच्छापरिमाणस्तन्नाम यस्य स तथोक्त: ॥