GP:रत्नकरंड श्रावकाचार - श्लोक 69 - टीका
From जैनकोष
प्राहुर्मर्यादा: । कानीत्याह -- मकराकरे त्यादि-मकराकरश्च समुद्र:, सरितश्च नद्यो गङ्गाद्या:, अटवी दण्डकारण्यादिका, गिरिश्च पर्वत: सह्यविन्ध्यादि:, जनपदो देशो वराटवापीतटादि:, योजनानि विंशतित्रिंशदादिसङ्ख्यानि । किंविशिष्टान्येतानि ? प्रसिद्धानि दिग्विरतिमर्यादानां दातुर्गृहीतुश्च प्रसिद्धानि । कासां मर्यादा: ? दिशाम् । कतिसङ्ख्यावच्छिन्नानां दशानाम् । कस्मिन् कत्र्तव्ये सति मर्यादा: ? प्रतिसंहारे इत: परतो न यास्यामीति व्यावृत्तौ ॥