GP:रत्नकरंड श्रावकाचार - श्लोक 6 - टीका
From जैनकोष
क्षुच्च बुभुक्षा । पिपासा च तृषा । जरा च वृद्धत्वम् । आतङ्कश्च व्याधि: । जन्म च कर्मवशाच्चतुर्गतिषूत्पत्ति: । अन्तकश्च मृत्यु: । भयं चेहपरलोकात्राणागुप्तिमरणवेदनाऽऽकस्मिकलक्षणम् । स्मयश्च जातिकुलादिदर्प: रागद्वेषमोहा: प्रसिद्धा: । च शब्दाच्चिन्ताऽरतिनिद्राविस्मयमदस्वेदखेदा गृह्यन्ते । एतेऽष्टादशदोषा यस्य न सन्ति स आप्त: प्रकीर्त्यते प्रतिपाद्यते । ननु चाप्तस्य भवेत् क्षुत्, क्षुदभावे आहारादौ प्रवृत्त्यभावाद्देहस्थितिर्न स्यात् । अस्ति चासौ, तस्मादाहारसिद्धि: । तथाहि भगवतो देहस्थितिराहारपूर्विका, देहस्थितित्वादस्मदादिदेहस्थितिवत् । जैनेनोच्यते -- अत्र किमाहारमात्रं साध्यते कवलाहारो वा ? प्रथमपक्षे सिद्धसाधनता आसयोगकेवलिन आहारिणो जीवा इत्यागमाभ्युपगमात् । दि्वतीयपक्षे तु देवदेहस्थित्याव्यभिचार: । देवानां सर्वदा कवलाहाराभावेऽप्यस्या: सम्भवात् । अथ मानसाहारात्तेषां तत्र स्थितिस्तर्हि केवलिनां कर्मनोकर्माहारात्सास्तु । अथ मनुष्यदेहस्थितित्वादस्मदादिवत्साततपूर्विका इष्यते तर्हि तद्वदेव तद्देहे सर्वदा नि:स्वेदत्वाद्यभाव: स्यात् । अस्मदादावनुपलब्धस्यापि तदतिशयस्य तत्र सम्भवे भुक्त्यभावलक्षणोऽप्यतिशय: किं न स्यात् । किं च अस्मदादौ दृष्टस्य धर्मस्य भगवति सम्प्रसाधने तज्ज्ञानस्येन्द्रियजनितत्वप्रसङ्ग: । तथाहि भगवतो ज्ञानमिन्द्रियजं ज्ञानत्वात् अस्मदादिज्ञानवत् । अतो भगवत: केवलज्ञानलक्षणातीन्द्रियज्ञानासम्भवात् सर्वज्ञत्वाय दत्तो जलाञ्जलि: । ज्ञानत्वाविशेषेऽपि तज्ज्ञानस्यातीन्द्रियत्वे देहस्थितित्वाऽविशेषेऽपि तद्देहस्थितेरकवलाहारपूर्वत्वं किं न स्यात् । वेदनीयसद्भावात्तस्य बुभुक्षोत्पत्तेर्भोजनादौ प्रवृत्तिरित्युक्तिरनुपपन्ना मोहनीयकर्मसहायस्यैव वेदनीयस्य बुभुक्षोत्पादने सामर्थ्यात् । भोक्तुमिच्छा बुभुक्षा सा मोहनीयकर्मकार्यत्वात् कथं प्रक्षीणमोहे भगवति स्यात् ? अन्यथा रिरंसाया अपि तत्र प्रसङ्गात् कमनीयकामिन्यादिसेवाप्रसक्तेरीश्वरादेस्तस्याविशेषाद्वीतरागता न स्यात् । विपक्षभावनावशाद्रागादीनां हान्यतिशयदर्शनात् केवलिनि तत्परमप्रकर्षप्रसिद्धेर्वीतरागतासम्भवे भोजनाभावपरमप्रकर्षोपि तत्र किं न स्यात्, तद्भावनातो भोजनादावपि हान्यतिशयदर्शनाविशेषात् । तथाहि एकस्मिन् दिने योऽनेकवारान् भुङ्क्ते, कदाचित् विपक्षभावनावशात् स एव पुनरेकवारं भुङ्क्ते । कश्चित् पुनरेकदिनाद्यन्तरितभोजन:, अन्य: पुन: पक्षमाससंवत्सराद्यन्तरितभोजन इति । किं च बुभुक्षापीडानिवृत्तिर्भोजनरसास्वादनाद्भवेत् तदास्वादनं चास्य रसनेन्द्रियात् केवलज्ञानाद्वा ? रसनेन्द्रियाच्चेत् मतिज्ञानप्रसङ्गात् केवलज्ञानाभाव: स्यात् । केवलज्ञानाच्चेत् किं भोजनेन ? दूरस्थस्यापि त्रैलोक्योदरवर्तिनोरसस्य परिस्फुटं तेनानुभवसम्भवात् । कथं चास्य केवलज्ञानसम्भवो भुञ्जानस्य श्रेणीत: पतितत्वं प्रमत्तगुणस्थानवर्तित्वात् । अप्रमत्तो हि साधुराहार कथामात्रेणापि प्रमत्तो भवति । नार्हन्भुञ्जानोऽपीति महच्चित्रम् । अस्तु तावज्ज्ञानसम्भव: तथाप्यसौ केवलज्ञानेन । पिशिताद्यशुद्धद्रव्याणि पश्यन् कथं भुञ्जीत अन्तरायप्रसङ्गात्। गृहस्था अप्यल्पसत्त्वास्तानि पश्यन्तोऽन्तरायं कुर्वन्ति, किं पुनर्भगवाननन्तवीर्यस्तन्नकुर्यात् । तदकरणे वा तस्य तेभ्योऽपि हीनसत्त्वप्रसङ्गात् । क्षुत्पीडासम्भवे चास्य कथमनन्तसौख्यं स्यात् यतोऽनन्तचतुष्टयस्वामिताऽस्य । नहि सान्तरायस्यानन्तता युक्ता ज्ञानवत् । न च बुभुक्षा पीडैव न भवतीत्यभिधातव्यम् क्षुधासमा नास्ति शरीरवेदना इत्यभिधानात् । तदलमतिप्रसङ्गेन प्रमेयकमलमार्तण्डे न्यायकुमुदचन्द्रे च प्रपञ्चत: प्ररूपणात् ॥६॥