GP:रत्नकरंड श्रावकाचार - श्लोक 70 - टीका
From जैनकोष
अणुव्रतानि प्रपद्यन्ते । काम् ? पञ्चमहाव्रतपरिणतिम् । केषाम् ? धारयताम् । कानि ? दिग्व्रतानि । कुतस्तत्परिणतिं प्रपद्यन्ते ? अणुपापप्रतिविरते: सूक्ष्ममपि पापं प्रतिविरते: व्यावृत्ते: । क्व ? बहि: । कस्मात् ? अवधे: कृतमर्यादाया: ॥