GP:रत्नकरंड श्रावकाचार - श्लोक 81 - टीका
From जैनकोष
व्यतीतयो ऽतीचारा भवन्ति । कस्य ? अनर्थदण्डकृद्विरते: अनर्थं निष्प्रयोजनं दण्डं दोषं कुर्वन्तीत्यनर्थदण्डकृत: पापोपदेशादयस्तेषां विरतिर्यस्य तस्य । कति ? पञ्च । कथमित्याह -- कन्दर्पेत्यादि, रागोद्रेकात्प्रहासमिश्रो भण्डिमाप्रधानो वचनप्रयोग: कन्दर्प:, प्रहासो भण्डिमावचनं भण्डिमोपेतकायव्यापारप्रयुक्तं कौत्कुच्यं, धाष्टर््यप्रायं बहुप्रलापित्वं मौखर्यं, यावतार्थेनोपभोगपरिभोगौ भवतस्ततोऽधिकस्य करणमतिप्रसाधनम्, एतानि चत्वारि, असमीक्ष्याधिकरणं पञ्चमम् असमीक्ष्य प्रयोजनमपर्यालोच्य आधिक्येन कार्यस्य करणमसमीक्ष्याधिकरणम् ॥