GP:रत्नकरंड श्रावकाचार - श्लोक 82 - टीका
From जैनकोष
भोगोपभोगपरिमाणं भवति । किं तत् ? यत्परिसङ्ख्यानं परिगणनम् । केषाम् ? अक्षार्थाना मिन्द्रियविषयाणां कथम्भूतानामपि तेषाम् ? अर्थवतामपि सुखादिलक्षणप्रयोजनसपादकानामपि अथवाऽर्थवतां सग्रन्थामपि श्रावकाणाम् । तेषां परिसङ्ख्यानम् । किमर्थम् ? तनूकृतये कृशतरत्वकरणार्थम् । कासाम् ? रागरतीनां रागेण विषयेषु रागोद्रेकेण रतय: आसक्तयस्तासाम् । कस्मिन् सति ? अवधौ विषयपरिमाणे ॥