GP:रत्नकरंड श्रावकाचार - श्लोक 84 - टीका
From जैनकोष
वर्जनीयम् । किं तत् ? क्षौद्रं मधु । तथा पिशितं । किमर्थम् ? त्रसहतिपरिहरणार्थं त्रसानां द्वीन्द्रियादीनां हतिर्वधस्तत्परिहरणार्थम् । तथा मद्यं च वर्जनीयम् । किमर्थम् ? प्रमादपरिहृतये माता भार्येति विवेकाभाव: प्रमादस्तस्य परिहृतये परिहारार्थम् । कैरेतद्वर्जनीयम् ? शरणमुपयातै: शरणमुपगतै: । कौ ? जिनचरणौ श्रावकैस्त्याज्यमित्यर्थ: ॥