GP:रत्नकरंड श्रावकाचार - श्लोक 94 - टीका
From जैनकोष
देशावकाशिकस्य कालावधिं कालमर्यादां प्राहु: । के ते ? प्राज्ञा: गणधरदेवादय: । किं तदित्याह संवत्सरमित्यादिॠ- संवत्सरं यावदेतावत्येव देशे मयाऽवस्थातव्यम् । तथा ऋतुमयनं वा यावत् । मासचतुर्मासपक्षं यावत् । ऋक्षं च चन्द्रभुक्त्या आदित्यभुक्त्या वा इदं नक्षत्रं यावत् ॥