GP:रत्नकरंड श्रावकाचार - श्लोक 99 - टीका
From जैनकोष
परिचेतव्यं वृद्धिं नेतव्यम् । किं तत् ? सामायिकम् । क्व ? एकान्ते स्त्रीपशुपाण्डुकिविवर्जिते प्रदेशे । कथम्भूते ? निव्र्याक्षेपे चित्तव्याकुलतारहिते शीतवातदंशमशकादिबाधावर्जित: इत्यर्थ: इत्थम्भूते एकान्ते । क्व ? वनेषु अटवीषु, वास्तुषु च गृहेषु, चैत्यालयेषु च अपिशब्दाद् गिरिगह्वरादिपरिग्रह: । केन चेतव्यम् ? प्रसन्नधिया प्रसन्ना अविक्षिप्ता धीर्यस्यात्मनस्तेन अथवा प्रसन्नासै धीश्च तया कृत्वा आत्मना परिचेतव्यमिति ॥