ग्रन्थ:रत्नकरंड श्रावकाचार - श्लोक 95
From जैनकोष
एवं देशावकाशिकव्रते कृते सति तत: परत: किं स्यादित्याह --
सीमान्तानां परतः स्थूलेतर पञ्चपापसंत्यागात्
देशावकाशिकेन च महाव्रतानि प्रसाध्यन्ते ॥95॥
टीका:
प्रसाध्यन्ते व्यवस्थाप्यन्ते । कानि ? महाव्रतानि । केन ? देशावकाशिकेन च न केवलं दिग्विरत्यापितु देशावकाशिकेनापि । कुत: ? स्थूलेतरपञ्चपापसन्त्यागात् स्थूलेतराणि च तानि हिंसादिलक्षणपञ्चपापानि च तेषां सम्यक् त्यागात् । क्व ? सीमान्तानां परत: देशावकाशिकव्रतस्य सीमाभूता ये 'अन्ताधर्मा' गृहादय: संवत्सरादिविशेषा: तेषां वा अन्ता: पर्यन्तास्तेषां परत: परिस्मन् भागे ॥
यह व्रत भी उपचार से महाव्रत है
सीमान्तानां परतः स्थूलेतर पञ्चपापसंत्यागात्
देशावकाशिकेन च महाव्रतानि प्रसाध्यन्ते ॥95॥
टीकार्थ:
देशावकाशिकव्रत में गृह आदि और वर्ष, मास आदि काल की अपेक्षा जो सीमा निर्धारित की थी, उसके आगे स्थूल और सूक्ष्म दोनों प्रकार से हिंसादि पंच पापों का पूर्णरूप से त्याग हो जाने से सीमा के बाहर दिग्व्रत के समान देशावकाशिव्रत में महाव्रत की सिद्धि होती है ।