समयसार - आत्मख्याति टीका - कलश 69
From जैनकोष
यद्येवं तर्हि को हि नाम नयपक्षसंन्यासभावानां न नाटयति ?
( उपेन्द्रवज्रा )
य एव मुक्त्वा नयपक्षपातं स्वरूपगुप्ता निवसन्ति नित्यम् ।
विकल्पजालच्युतशान्तचित्तस्त एव साक्षादमृतं पिबन्ति ॥६९॥