समयसार - आत्मख्याति टीका - गाथा 142
From जैनकोष
तत: किम्
कम्मं बद्धमबद्धं जीवे एवं तु जाण णयपक्खं ।
पक्खादिक्कंतो पुण भण्णदि जो सो समयसारो ॥१४२॥
कर्म बद्धमबद्धं जीवे एवं तु जानीहि नयपक्षम् ।
पक्षातिक्रान्त: पुनर्भण्यते य: स समयसार: ॥१४२॥
य: किल जीवे बद्धं कर्मेतियश्च जीवोऽबद्धं कर्मेति विकल्प: स द्वितयोऽपि हि नयपक्ष: ।
य एवैनमतिक्रामति स एव सकलविकल्पातिक्रान्त: स्वयं निर्विकल्पैकविज्ञानघनस्वभावो भूत्वा साक्षात्समयसार: सम्भवति ।
तत्र यस्तावज्जीवे बद्धं कर्मेति विकल्पयति स जीवेऽबद्धं कर्मेति एकं पक्षमतिक्रामन्नपि न विकल्पमतिक्रामति । यस्तु जीवेऽबद्धं कर्मेति विकल्पयति सोऽपि जीवे बद्धं कर्मेत्येकं पक्षमति-क्रामन्नपि न विकल्पमतिक्रामति । य: पुनर्जीवे बद्धमबद्धं च कर्मेति विकल्पयति स तु तं द्वितयमपि पक्षमनतिक्रामन् न विकल्पमतिक्रामति ।
ततो य एव समस्तनयपक्षमतिक्रामति स एव समस्तं विकल्पमतिक्रामति । य एव समस्तं विकल्पमतिक्रामति स एव समयसारं विन्दति ॥१४२ ॥