समयसार - आत्मख्याति टीका - गाथा 73: Difference between revisions
From जैनकोष
('<div class="SanskritUtthanika">केन विधिनायमास्रवेभ्यो निवर्तत इति चे...' के साथ नया पन्ना बनाया) |
No edit summary |
||
Line 23: | Line 23: | ||
* [[समयसार - तात्पर्यवृत्ति टीका - गाथा 73]] | * [[समयसार - तात्पर्यवृत्ति टीका - गाथा 73]] | ||
Revision as of 14:54, 10 December 2013
केन विधिनायमास्रवेभ्यो निवर्तत इति चेत्
अहमेक्को खलु सुद्धो णिम्ममओ णाणदंसणसमग्गो ।
तम्हि ठिदो तच्चित्ते सव्वे एदे खयं णेमि ॥७३॥
अहमेक: खलु शुद्ध: निर्ममत: ज्ञानदर्शनसमग्र: ।
तस्मिन् स्थितस्तच्चित्त: सर्वानेतान् क्षयं नयामि ॥७३॥
अहमयमात्मा प्रत्यक्षमक्षुण्णमनन्तं चिन्मात्रं ज्योतिरनाद्यनन्तनित्योदितविज्ञानघनस्वभावभाव- त्वादेक:, सकलकारकचक्रप्रक्रियोत्तीर्णनिर्मलानुभूतिमात्रत्वाच्छुद्ध:, पुद्गलस्वामिकस्य क्रोधादि -भाववैश्वरूपस्य स्वस्य स्वामित्वेन नित्यमेवापरिणमनान्निर्ममत:, चिन्मात्रस्य महसो वस्तु- स्वभावत एव सामान्यविशेषाभ्यां सकलत्वाद् ज्ञानदर्शनसमग्र:, गगनादिवत्पारमार्थिको वस्तु-विशेषोऽस्मि ।
तदहमधुनास्मिन्नेवात्मनि निखिलपरद्रव्यप्रवृत्तिनिवृत्त्या निश्चलमवतिष्ठमान: सकलपरद्रव्य-निमित्तकविशेषचेतनचञ्चलकल्लोलनिरोधेनेममेव चेतयमान: स्वाज्ञानेनात्मन्युत्प्लवमानानेतान्
भावानखिलानेव क्षपयामीत्यात्मनि निश्चित्य चिरसङ्गृहीतमुक्तपोतपात्र: समुद्रावर्त इव झगित्ये-वोद्वान्तसमस्तविकल्पोऽकल्पितमचलितममलमात्मानमालम्बमानो विज्ञानघनभूत: खल्वयमात्मा-स्रवेभ्यो निवर्तते ॥७३ ॥