समयसार - आत्मख्याति टीका - गाथा 74
From जैनकोष
कथं ज्ञानास्रवनिवृत्त्यो: समकालत्वमिति चेत्
जीवणिबद्धा एदे अधु्रव अणिच्चा तहा असरणा य ।
दुक्खा दुक्खफल त्ति य णादूण णिवत्तदे तेहिं ॥७४॥
जीवनिबद्धा एते अध्रुवा अनित्यास्तथा अशरणाश्च ।
दु:खानि दु:खफला इति च ज्ञात्वा निवर्तते तेभ्य: ॥७४॥
जतुपादपवद्वध्यघातकस्वभावत्वाज्जीवनिबद्धा: खल्वास्रवा:, न पुनरविरुद्धस्वभावत्वाभावा-ज्जीव एव । अपस्माररयवद्वर्धमानहीयमानत्वादध्रुवा: खल्वास्रवा:, ध्रुवश्चिन्मात्रो जीव एव ।
शीतदाहज्वरावेशवत् क्रमेणोज्जृम्भमाणत्वादनित्या: खल्वास्रवा:, नित्यो विज्ञानघनस्वभावो जीव एव । बीजनिर्मोक्षक्षणक्षीयमाणदारुणस्मरसंस्कारवत्त्रातुमशक्यत्वादशरणा: खल्वास्रवा:, सशरण: स्वयं गुप्त: सहजचिच्छक्तिर्जीव एव ।
नित्यमेवाकुलस्वभावत्वाद्दु:खानि खल्वास्रवा:, अदु:खं नित्यमेवानाकुलस्वभावो जीव एव । आयत्यामाकुलत्वोत्पादकस्य पुद्गलपरिणामस्य हेतुत्वाद्दु:खफला: खल्वास्रवा: अदु:खफल: सकलस्यापि पुद्गलपरिणामस्याहेतुत्वाज्जीवएव ।
इति विकल्पानन्तरमेव शिथिलतकर्मविपाको विघटितघनौघघटनो दिगाभोग इव निरर्गल-प्रसर: सहजविजृम्भमाणचिच्छक्तितया यथा यथा विज्ञानघनस्वभावो भवति तथा तथास्रवेभ्यो निवर्तते, यथा यथास्रवेभ्यश्च निवर्तते तथा तथा विज्ञानघनस्वभावो भवतीति ।
तावद्विज्ञानघनस्वभावो भवति यावत्सम्यगास्रवेभ्यो निवर्तते, तावदास्रवेभ्यश्च निवर्तते यावत्सम्यग्विज्ञानघनस्वभावो भवतीति ज्ञानास्रवनिवृत्त्यो: समकालत्वम् ॥७४॥