समयसार - आत्मख्याति टीका -गाथा 102
From जैनकोष
जं भावं सुहमसुहं करेदि आदा स तस्स खलु कत्त ।
तं तस्स होदि कम्मं सो तस्स दु वेदगो अप्पा ॥१०२॥
यं भावं शुभमशुभं करोत्यात्मा स तस्य खलु कर्ता ।
तत्तस्य भवति कर्म स तस्य तु वेदक आत्मा ॥१०२॥
इह खल्वनादेरज्ञानात्परात्मनोरेकत्वाध्यासेन पुद्गलकर्मविपाकदशाभ्यां मन्दतीव्रस्वादाभ्याम-चलितविज्ञानघनैकस्वादस्याप्यात्मन: स्वादं भिन्दान: शुभमशुभं वा यो यं भावमज्ञानरूपमात्मा करोति स आत्मा तदा तन्मयत्वेन तस्य भावस्य व्यापकत्वाद्भवति कर्ता, स भावोऽपि च तदा तन्मयत्वेन तस्यात्मनो व्याप्यत्वाद्भवति कर्म, स एव चात्मा तदा तन्मयत्वेन तस्य भावस्य भावक-त्वाद्भवत्यनुभविता, स भावोऽपि च तदा तन्मयत्वेन तस्यात्मनो भाव्यत्वाद्भवत्यनुभाव्य: ॥१०२॥