समयसार - आत्मख्याति टीका -गाथा 103 - 104
From जैनकोष
जो जम्हि गुणे दव्वे सो अण्णम्हि दु ण संकमदि दव्वे ।
सो अण्णमसंकंतो कह तं परिणामए दव्वं ॥१०३॥
दव्वगुणस्स य आदा ण कुणदि पोग्गलमयम्हि कम्मम्हि ।
तं उभयमकुव्वंतो तम्हि कहं तस्स सो कत्त ॥१०४॥
यो यस्मिन् गुणे द्रव्ये सोऽन्यस्मिंस्तु न सङ्क्रामति द्रव्ये ।
सोऽन्यदसङ्क्रान्त: कथं तत्परिणामयति द्रव्यम् ॥१०३॥
द्रव्यगुणस्य चात्मा न करोति पुद्गलमये कर्मणि ।
तदुभयमकुर्वंस्तस्मिन्कथं तस्य स कर्ता ॥१०४॥
इह किल यो यावान् कश्चिद्वस्तुविशेषो यस्मिन् यावति कस्मिंश्चिच्चिदात्मन्यचिदात्मनि वा द्रव्ये गुणे च स्वरसत एवानादित एव वृत्त:, स खल्वचलितस्य वस्तुस्थितिसीम्नो भेत्तुमशक्यत्वात्त-स्मिन्नेव वर्तेत न पुन: द्रव्यान्तरं गुणान्तरं वा सङ्क्रामेत । द्रव्यान्तरं गुणान्तरं वाऽसङ्क्रामंश्च कथं त्वन्यं वस्तुविशेषं परिणामयेत् ? अत: परभाव: केनापि न कर्तुं पार्येत ।
यथा खलु मृण्मये कलशे कर्मणि मृद्द्रव्यमृद्गुणयो: स्वरसत एव वर्तमाने द्रव्यगुणान्तर-सङ्क्रमस्य वस्तुस्थित्यैव निषिद्धत्वादात्मानमात्मगुणं वा नाधत्ते स कलशकार:, द्रव्यान्तरसङ्क्रममन्तरे-णान्यस्य वस्तुन: परिणमयितुमशक्यत्वात् तदुभयं तु तस्मिन्ननादधानो न तत्त्वतस्तस्य कर्ता प्रतिभाति ।
तथा पुद्गलमये ज्ञानावरणादौ कर्मणि पुद्गलद्रव्यपुद्गलगुणयो: स्वरसत एव वर्तमाने द्रव्यगुणान्तरसङ्क्रमस्य विधातुमशक्यत्वादात्मद्रव्यमात्मगुणं वात्मा न खल्वाधत्ते, द्रव्यान्तर-सङ्क्रममन्तरेणान्यस्य वस्तुन: परिणमयितुमशक्यत्वात्तदुभयं तु तस्मिन्ननादधान: कथं नु तत्त्वतस्तस्य कर्ता प्रतिभायात्? तत: स्थित: खल्वात्मा पुद्गलकर्मणामकर्ता ॥१०३-१०४ ॥