ग्रन्थ:रत्नकरंड श्रावकाचार - श्लोक 72
From जैनकोष
ननु कुतस्ते महाव्रताय कल्प्यन्ते न पुन: साक्षान्महाव्रतरूपा भवन्तीत्याह --
पञ्चानां पापानां हिंसादीनां मनोवचःकायैः
कृतकारितानुमोदैस्त्यागस्तु महाव्रतं महताम् ॥72॥
टीका:
त्यागस्तु पुनर्महाव्रतं भवति। केषां त्याग: हिंसादीनां पञ्चानाम् । कथम्भूतानां पापानां पापोपार्जनहेतुभूतानाम् । कैस्तेषां त्याग: मनोवच:कायै: । तैरपि कै: कृत्वा त्याग: ? कृतकारितानुमोदै: । अयमर्थ:- हिंसादीनां मनसा कृतकारितानुमोदैस्त्याग: । तथा वचसा कायेन चेति । केषां तैस्त्यागो महाव्रतम् ? महतां प्रमत्तादिगुणस्थानवर्तिनां विशिष्टात्मनाम् ॥
महाव्रत का लक्षण
पञ्चानां पापानां हिंसादीनां मनोवचःकायैः
कृतकारितानुमोदैस्त्यागस्तु महाव्रतं महताम् ॥72॥
टीकार्थ:
हिंसा, असत्य, चोरी, अब्रह्म और परिग्रह ये पाँच पाप पापोपार्जन के हेतु हैं । इसलिए इनका मन-वचन-काय और कृत-कारित-अनुमोदना इन नौ कोटि से त्याग करना महाव्रत कहलाता है । यह महाव्रत प्रमत्तसंयतादि गुणस्थानवर्ती विशिष्ट मुनियों के ही होता है, अन्य के नहीं ।