पाठ:कल्याणमन्दिरस्तोत्रम—आचार्य कुमुदचंद्र
From जैनकोष
इत्थं समाहित-धियो विधिवज्जिनेन्द्र !
सान्द्रोल्लसत्पुलक-कञ्चुकिताङ्गभागा: ।
त्वद्बिम्ब-निर्मल-मुखाम्बुज-बद्ध-लक्ष्या,
ये संस्तवं तव विभो! रचयन्ति भव्या: ॥४३॥
जननयन 'कुमुदचन्द्र' प्रभास्वरा: स्वर्ग-सम्पदो भुक्त्वा ।
ते विगलित-मल-निचया, अचिरान्मोक्षं प्रपद्यन्ते ॥४४॥