समयसार - आत्मख्याति टीका - गाथा 121 - 125
From जैनकोष
ण सयं बद्धो कम्मे ण सयं परिणमदि कोहमादीहिं ।
जइ एस तुज्झ जीवो अप्परिणामी तदा होदि ॥१२१॥
अपरिणमंतम्हि सयं जीवे कोहादिएहिं भावेहिं ।
संसारस्स अभावो पसज्जदे संखसमओ वा ॥१२२॥
पोग्गलकम्मं कोहो जीवं परिणामएदि कोहत्तं ।
तं सयमपरिणमंतं कहं णु परिणामयदि कोहो ॥१२३॥
अह सयमप्पा परिणमदि कोहभावेण एस दे बुद्धी ।
कोहो परिणामयदे जीवं कोहत्तमिदि मिच्छा ॥१२४॥
कोहुवजुत्ते कोहो माणवजुत्ते य माणमेवादा ।
माउवजुत्ते माया लोहुवजुत्ते हवदि लोहो ॥१२५॥
न स्वयं बद्ध: कर्मणि न स्वयं परिणमते क्रोधादिभि: ।
यद्येष: तव जीवोऽपरिणामी तदा भवति ॥१२१॥
अपरिणममाने स्वयं जीवे क्रोधादिभि: भावै: ।
संसारस्याभाव: प्रसजति साङ्ख्यसमयो वा ॥१२२॥
पुद्गलकर्म क्रोधो जीवं परिणामयति क्रोधत्वम् ।
तं स्वयमपरिणममानं कथं नु परिणामयति क्रोध: ॥१२३॥
अथ स्वयमात्मा परिणमते क्रोधभावेन एषा ते बुद्धि: ।
क्रोध: परिणामयति जीवं क्रोधत्वमिति मिथ्या ॥१२४॥
क्रोधोपयुक्त: क्रोधो मानोपयुक्तश्च मान एवात्मा ।
मायोपयुक्तो माया लोभोपयुक्तो भवति लोभ: ॥१२५॥
यदि कर्मणि स्वयमबद्ध: सन् जीव: क्रोधादिभावेन स्वयमेव न परिणमेत तदा स किला-परिणाम्येव स्यात् । तथा सति संसाराभाव: ।
अथ पुद्गलकर्म क्रोधादि जीवं क्रोधादिभावेन परिणामयति ततो न संसाराभाव इति तर्क: ।
किं स्वयमपरिणममानं परिणममानं वा पुद्गलकर्म क्रोधादि जीवं क्रोधादिभावेन परिणामयेत्?
न तावत्स्वयमपरिणममान: परेण परिणमयितुं पार्येत, न हि स्वतोऽसति शक्ति: कर्तुमन्येन पार्यते । स्वयं परिणममानस्तु न परं परिणमयितारमपेक्षेत, न हि वस्तुशक्तय: परमपेक्षन्ते ।
ततो जीव: परिणामस्वभाव: स्वयमेवास्तु ।
तथा सति गरुडध्यानपरिणत: साधक: स्वयं गरुड इवाज्ञानस्वभावक्रोधादिपरिणतोपयोग: स एव स्वयं क्रोधादि स्यात् । इति सिद्धं जीवस्य परिणामस्वभावत्वम् ॥१२१-१२५ ॥