समयसार - आत्मख्याति टीका - गाथा 126 - 127
From जैनकोष
जं कुणदि भावमादा कत्त सो होदि तस्स कम्मस्स ।
णाणिस्स स णाणमओ अण्णाणमओ अणाणिस्स ॥१२६॥
अण्णाणमओ भावो अणाणिणो कुणदि तेण कम्माणि ।
णाणमओ णाणिस्स दु ण कुणदि तम्हा दु कम्माणि ॥१२७॥
यं करोति भावमात्मा कर्ता स भवति तस्य कर्मण: ।
ज्ञानिन: स ज्ञानमयोऽज्ञानमयोऽज्ञानिन: ॥१२६॥
अज्ञानमयो भावोऽज्ञानिन: करोति तेन कर्माणि ।
ज्ञानमयो ज्ञानिनस्तु न करोति तस्मात्तु कर्माणि ॥१२७॥
एवमयमात्मा स्वयमेव परिणामस्वभावोऽपि यमेव भावमात्मन: करोति तस्यैव कर्मतामापद्य-मानस्य कर्तृत्वमापद्येत । स तु ज्ञानिन: सम्यक्स्वपरविवेकेनात्यन्तोदितविविक्तात्मख्यातित्वात् ज्ञानमय एव स्यात् । अज्ञानिन: तु सम्यक्स्वपरविवेकाभावेनात्यन्तप्रत्यस्तमितविविक्तात्मख्याति-त्वादज्ञानमय एव स्यात् ।
किं ज्ञानमयभावात्किमज्ञानमयाद्भवतीत्याह
अज्ञानिनो हि सम्यक्स्वपरविवेकाभावेनात्यन्तप्रत्यस्तमितविविक्तात्मख्यातित्वाद्यस्मादज्ञानमय
एव भाव: स्यात्, तस्मिंस्तु सति स्वपरयोरेकत्वाध्यासेन ज्ञानमात्रात्स्वस्मात्प्रभ्रष्ट: पराभ्यां रागद्वेषाभ्यां सममेकीभूय प्रवर्तिताहङ्कार: स्वयं किलैषोऽहं रज्ये रुष्यामीति रज्यते रुष्यति च, तस्मादज्ञानमयभावादज्ञानी परौ रागद्वेषावात्मानं कुर्वन् करोति कर्माणि ।
ज्ञानिनस्तु सम्यक्स्वपरविवेकेनात्यन्तोदितविविक्तात्मख्यातित्वाद्यस्मात् ज्ञानमय एव भाव: स्यात्, तस्मिंस्तु सति स्वपरयोर्नानात्वविज्ञानेन ज्ञानमात्रे स्वस्मिन्सुनिविष्ट: पराभ्यां रागद्वेषाभ्यां पृथग्भूततया स्वरसत एव निवृत्तहङ्कार: स्वयं किल केवलं जानात्येव न रज्यते न च रुष्यति, तस्मात् ज्ञानमयभावात् ज्ञानी परौ रागद्वेषावात्मानमकुर्वन्न करोति कर्माणि ॥१२६-१२७ ॥