समयसार - आत्मख्याति टीका - गाथा 128 - 129
From जैनकोष
णाणमया भावाओ णाणमओ चेव जायदे भावो ।
जम्हा तम्हा णाणिस्स सव्वे भावा हु णाणमया ॥१२८॥
अण्णाणमया भावा अण्णाणो चेव जायदे भावो ।
जम्हा तम्हा भावा अण्णाणमया अणाणिस्स ॥१२९॥
ज्ञानमयाद्भावात् ज्ञानमयश्चैव जायते भाव: ।
यस्मात्तस्माज्ज्ञानिन: सर्वे भावा: खलु ज्ञानमया: ॥१२८॥
अज्ञानमयाद्भावादज्ञानश्चैव जायते भाव: ।
यस्मात्तस्माद्भावा अज्ञानमया अज्ञानिन: ॥१२९॥
यतो ह्यज्ञानमयाद्भावाद्य: कश्चनापि भावो भवति स सर्वोऽप्यज्ञानमयत्वमनतिवर्तमानोऽज्ञान-मय एव स्यात्, तत: सर्वे एवाज्ञानमया अज्ञानिनो भावा: ।
यतश्च ज्ञानमयाद्भावाद्य: कश्चनापि भावो भवति स सर्वोऽपि ज्ञानमयत्वमनतिवर्तमानो ज्ञानमय एव स्यात्, तत: सर्वे एव ज्ञानमया ज्ञानिनो भावा: ॥१२८-१२९ ॥