समयसार - आत्मख्याति टीका - गाथा 130 - 131
From जैनकोष
अथैतदेव दृष्टान्तेन समर्थयते
कणयमया भावादो जायंते कुण्डलादओ भावा ।
अयमयया भावादो जह जायंते दु कडयादी ॥१३०॥
अण्णाणमया भावा अणाणिणो बहुविहा वि जायंते ।
णाणिस्स दु णाणमया सव्वे भावा तहा होंति ॥१३१॥
कनकमयाद्भावाज्जयन्ते कुण्डलादयो भावा: ।
अयोमयकाद्भावाद्यथा जायन्ते तु कटकादय: ॥१३०॥
अज्ञानमया भावा अज्ञानिनो बहुविधा अपि जायन्ते ।
ज्ञानिनस्तु ज्ञानमया: सर्वे भावास्तथा भवन्ति ॥१३१॥
यथा खलु पुद्गलस्य स्वयं परिणामस्वभावत्वे सत्यपि कारणानुविधायित्वात्कार्याणां जाम्बूनदमयाद्भावाज्जम्बूनदजातिमनतिवर्तमाना जाम्बूनदकुण्डलादय एव भावा भवेयु:, न
पुन: कालायसवलयादय:, कालायसमयाद्भावाच्च कालायसजातिमनतिवर्तमाना: कालायसवल- यादय एव भवेयु:, न पुनर्जाम्बूनदकुण्डलादय: ।
तथा जीवस्य स्वयं परिणामस्वभावत्वे सत्यपि कारणानुविधायित्वादेव कार्याणां अज्ञानिन:
स्वयमज्ञानमयाद्भावादज्ञानजातिमनतिवर्तमाना विविधा अप्यज्ञानमया एव भावा भवेयु:, न पुनर्ज्ञानमया, ज्ञानिनश्च स्वयं ज्ञानमयाद्भावाज्ज्ञानजातिमनतिवर्तमाना: सर्वे ज्ञानमया एव भावा भवेुय:, न पुनरज्ञानमया: ॥१३०-१३१ ॥