समयसार - आत्मख्याति टीका - गाथा 137 - 140
From जैनकोष
जीवात्पृथग्भूत एव पुद्गलद्रव्यस्य परिणाम:
जीवस्स दु कम्मेण य सह परिणामा हु होंति रागादी ।
एवं जीवो कम्मं च दो वि रागादिमावण्णा ॥१३७॥
एकस्स दु परिणामो जायदि जीवस्स रागमादीहिं ।
ता कम्मोदयहेदूहिं विणा जीवस्स परिणामो ॥१३८॥
जइ जीवेण सह च्चिय पोग्गलदव्वस्सकम्मपरिणामो ।
एवं पोग्गलजीवा हु दो वि कम्मत्तमावण्णा ॥१३९॥
एकस्स दु परिणामो पोग्गलदव्वस्स कम्मभावेण ।
ता जीवभावहेदूहिं विणा कम्मस्स परिणामो ॥१४०॥
जीवस्य तु कर्मणा च सह परिणामा: खलु भवन्तिरागादय: ।
एवं जीव: कर्म च द्वे अपि रागादित्वमापन्ने ॥१३७॥
एकस्य तु परिणामो जायते जीवस्य रागादिभि: ।
तत्कर्मोदयहेतुभिर्विना जीवस्य परिणाम: ॥१३८॥
यदि जीवेन सह चैव पुद्गलद्रव्यस्य कर्मपरिणाम: ।
एवं पुद्गलजीवौ खलु द्वावपि कर्मत्वमापन्नौ ॥१३९॥
एकस्य तु परिणाम: पुद्गलद्रव्यस्य कर्मभावेन ।
तज्जीवभावहेतुभिर्विना कर्मण: परिणाम: ॥१४०॥
यदि पुद्गलद्रव्यस्य तन्निमित्तभूतरागाद्यज्ञानपरिणामपरिणतजीवेन सहैव कर्मपरिणामोभवतीति
वितर्क:, तदा पुद्गलद्रव्यजीवयो: सहभूतहरिद्रासुधयोरिव द्वयोरपि कर्मपरिणामापत्ति: । अथ चैकस्यैव पुद्गलद्रव्यस्य भवति कर्मत्वपरिणाम:, ततो रागादिजीवाज्ञानपरिणामाद्धेतो: पृथग्भूत एव पुद्गलकर्मण: परिणाम: ।
पुद्गलद्रव्यात्पृथग्भूत एव जीवस्य परिणाम: यदि जीवस्य तन्निमित्तभूतविपच्यमानपुद्गल-कर्मणा सहैव रागाद्यज्ञानपरिणामो भवतीति वितर्क:, तदा जीवपुद्गलकर्मणो: सहभूतसुधा-हरिद्रयोरिव द्वयोरपि रागाद्यज्ञानपरिणामापत्ति: । अथ चैकस्यैव जीवस्य भवति रागाद्यज्ञान-परिणाम:, तत: पुद्गलकर्मविपाकाद्धेतो: पृथग्भूतो एव जीवस्य परिणाम: ॥१३७-१४० ॥