समयसार - आत्मख्याति टीका - गाथा 144
From जैनकोष
पक्षातिक्रान्त एव समयसार इत्यवतिष्ठते
सम्मद्दंसणणाणं एसो लहदि त्ति णवरि ववदेसं ।
सव्वणयपक्खरहिदो भणिदो जो सो समयसारो ॥१४४॥
सम्यग्दर्शनज्ञानमेष लभत इति केवलं व्यपदेशम् ।
सर्वनयपक्षरहितो भणितो य: स समयसार: ॥१४४॥
अयमेक एव केवलं सम्यग्दर्शनज्ञानव्यपदेशं किल लभते । य: खल्वखिलनयपक्षाक्षुण्णतया विश्रान्तसमस्तविकल्पव्यापार: स समयसार: ।
यत: प्रथमत: श्रुतज्ञानावष्टम्भेन ज्ञानस्वभावमात्मानं निश्चित्य तत: खल्वात्मख्यातये पर-ख्यातिहेतूनखिला एवेन्द्रियानिन्द्रियबुद्धीरवधार्य आत्माभिमुखीकृतमतिज्ञानतत्त्व:, तथा नानाविध-नयपक्षालम्बनेनानेकविकल्पैराकुलयन्ती: श्रुतज्ञानबुद्धीरप्यवधार्य श्रुतज्ञानतत्त्वमप्यात्माभिमुखी-कुर्वन्नत्यन्तविकल्पो भूत्वा झगित्येव स्वरसत एव व्यक्तीभवन्तमादिमध्यान्तविमुक्तमनाकुलमेकं केवलमखिलस्यापि विश्वस्योपरि तरन्तमिवाखण्डप्रतिभासमयमनन्तं विज्ञानघनं परमात्मानं समयसारं विन्दन्नेवात्मा सम्यग्दृश्यते ज्ञायते च, तत: सम्यग्दर्शनं ज्ञानं च समयसार एव ॥१४४॥